SANATANI
Skip to main content
॥
सनातनी
॥
Dashboard
Read
Scriptures
ॐ
Collections
Reading shelf
Community
Scripture requests
Contact
Sign in
Theme
Light
System
Dark
Toggle Sidebar
Sanatani
Reading settings
Settings
Shiva Mahima aur Stuti Devanagari Scripture Text and Path | Sanatani
ॐ
शिव-महिमा और स्तुति
Stotra · 18 verses
श्लोक
एको हि रुद्रो न द्वितीयाय तस्थु-
र्य इमाँल्लोकानीशत ईशनीभिः ।
प्रत्यङ् जनांस्तिष्ठति संचुकोचान्तकाले
संसृज्य विश्वा भुवनानि गोपा: ।।
1
यो देवानां प्रभवश्चोद्भवश्च
विश्वाधिपो रुद्रो महर्षि: ।
हिरण्यगर्भं जनयामास पूर्वं
स नो बुद्ध्या शुभया संयुनक्तु ।।
2
या ते रुद्र शिवा तनूरघोरापापकाशिनी ।
तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ।।
3
तत: परं ब्रह्मपरं बृहन्तं
यथानिकायं सर्वभूतेषु गूढम् ।
विश्वस्यैकं परिवेष्टितार-
मीशं तं ज्ञात्वामृता भवन्ति ।।
4
सर्वाननशिरोग्रीव: सर्वभूतगुहाशय: ।
सर्वव्यापी स भगवांस्तस्मात् सर्वगत: शिव: ।।
5
महान् प्रभुर्वै पुरुष: सत्त्वस्यैष प्रवर्तक: ।
सुनिर्मलामिमां प्राप्तिमीशानो ज्योतिरव्यय: ।।
6
पुरुष एवेद्ँ सर्वं यद्भूतं यच्च भव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ।।
7
सर्वत: पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् ।
सर्वत: श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।।
8
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
सर्वस्य प्रभुमीशानं सर्वस्य शरणं बृहत् ।।
9
अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षु:
स श्रृणोत्यकर्ण: ।
स वेत्ति वेद्यं न च तस्यास्ति वेत्ता
तमाहुरग्रय्ं पुरुषं महान्तम् ।।
10
अणोरणीयान् महतो महीया-
नात्मा गुहायां निहितोऽस्य जन्तो: ।
तमक्रतुं पश्यति वीतशोको
धातु: प्रसादान्महिमानमीशम् ।।
11
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।
तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ।।
12
यो योनिं योनिमधितिष्ठत्येको
यस्मिन्निदं सं च वि चैति सर्वम् ।
तमीशानं वरदं देवमीड्यं
निचाय्येमां शान्तिमत्यन्तमेति ।।
13
यो देवानां प्रभवश्चोद्भवश्च
विश्वाधिपो रुद्रो महर्षि: ।
हिरण्यगर्भं पश्यत जायमानं
स नो बुद्ध्या शुभया संयुनक्तु ।।
14
सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये
विश्वस्य स्रष्टारमनेकरूपम् ।
विश्वस्यैकं परिवेष्टितारं
ज्ञात्वा शिवं शान्तिमत्यन्तमेति ।।
15
घृतात् परं मण्डमिवातिसूक्ष्मं
ज्ञात्वा शिवं सर्वभूतेषु गूढम् ।
विश्वस्यैकं परिवेष्टितारं
ज्ञात्वा देवं मुच्यते सर्वपाशै: ।।
16
यदातमस्तन्न दिवा न रात्रि-
र्न सन्न चासञ्छिव व एव केवल: ।
तदक्षरं तत्सवितुर्वरेण्यं
प्रज्ञा च तस्मात् प्रसृता पुराणी ।।
17
भावग्राह्यमनीडाख्यं भावाभावकरं शिवम् ।
कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ।।
18
More scriptures
शिवपञ्चाक्षरस्तोत्रम्
Shiva Panchakshara Stotram
· Adi Shankaracharya
द्वादशज्योतिर्लिङ्गस्तोत्रम्
Dvadasha Jyotirlinga Stotram
· Traditional
परमेश्वरस्तोत्रम्
Parameshvara Stotram
· Traditional
श्रीशिवापराधक्षमापनस्तोत्रम्
Shri Shiva Aparadha Kshamapana Stotram
· Adi Shankaracharya
Report a typo or translation issue