विनियोग — ॐ अस्याश्चाक्षुषीविद्याया अहिर्बुध्न्य ऋषिर्गायत्री छन्द: सूर्यो देवता चक्षूरोगनिवृत्तये विनियोग:।
ॐ चक्षु: चक्षु: चक्षु: तेज: स्थिरो भव। मां पाहि पाहि।
त्वरितं चक्षूरोगान् शमय शमय।
मम जातरूपं तेजो दर्शय दर्शय।
यथा अहम् अन्धो न स्यां तथा कल्पय कल्पय। कल्याणं कुरु कुरु।
यानि मम पूर्वजन्मोपार्जितानि चक्षु:प्रतिरोधकदुष्कृतानि सर्वाणि निर्मूलय निर्मूलय।
ॐ नम: चक्षुस्तेजोदात्रे दिव्याय भास्कराय।
ॐ नम: करुणाकरायामृताय।
ॐ नम: सूर्याय।
ॐ नमो भगवते सूर्यायाक्षितेजसे नम:।
खेचराय नम:। महते नम:। रजसे नम:। तमसे नम:। असतो मा सद्गमय।
तमसो मा ज्योतिर्गमय। मृत्योर्मा अमृतं गमय। उष्णो भगवाञ्छुचिरूप:।
हंसो भगवान् शुचिरप्रतिरूप:।
य इमां चाक्षुष्मतीविद्यां ब्राह्मणो नित्यमधीते न तस्याक्षिरोगो भवति।
न तस्य कुले अन्धो भवति। अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा विद्यासिद्धिर्भवति।
ॐ नमो भगवते आदित्याय अहोवाहिनी अहोवाहिनी स्वाहा।
॥ श्रीकृष्णयजुर्वेदीया चाक्षुषी विद्या सम्पूर्णा॥